05033001 वैशंपायन उवाच
05033001a द्वाःस्थं प्राह महाप्राज्ञो धृतराष्ट्रो महीपतिः
05033001c विदुरं द्रष्टुम् इच्छामि तम् इहानय माचिरम्
05033002a प्रहितो धृतराष्ट्रेण दूतः क्षत्तारम् अब्रवीत्
05033002c ईश्वरस् त्वां महाराजो महाप्राज्ञ दिदृक्षति
05033003a एवम् उक्तस् तु विदुरः प्राप्य राजनिवेशनम्
05033003c अब्रवीद् धृतराष्ट्राय द्वाःस्थ मां प्रतिवेदय
05033004 द्वाःस्थ उवाच
05033004a विदुरो ऽयम् अनुप्राप्तो राजेन्द्र तव शासनात्
05033004c द्रष्टुम् इच्छति ते पादौ किं करोतु प्रशाधि माम्
05033005 धृतराष्ट्र उवाच
05033005a प्रवेशय महाप्राज्ञं विदुरं दीर्घदर्शिनम्
05033005c अहं हि विदुरस्यास्य नाकाल्यो जातु दर्शने
05033006 द्वाःस्थ उवाच
05033006a प्रविशान्तःपुरं क्षत्तर् महाराजस्य धीमतः
05033006c न हि ते दर्शने ऽकाल्यो जातु राजा ब्रवीति माम्
05033007 वैशंपायन उवाच
05033007a ततः प्रविश्य विदुरो धृतराष्ट्रनिवेशनम्
05033007c अब्रवीत् प्राञ्जलिर् वाक्यं चिन्तयानं नराधिपम्
05033008a विदुरो ऽहं महाप्राज्ञ संप्राप्तस् तव शासनात्
05033008c यदि किं चन कर्तव्यम् अयम् अस्मि प्रशाधि माम्
05033009 धृतराष्ट्र उवाच
05033009a संजयो विदुर प्राप्तो गर्हयित्वा च मां गतः
05033009c अजातशत्रोः श्वो वाक्यं सभामध्ये स वक्ष्यति
05033010a तस्याद्य कुरुवीरस्य न विज्ञातं वचो मया
05033010c तन् मे दहति गात्राणि तद् अकार्षीत् प्रजागरम्
05033011a जाग्रतो दह्यमानस्य श्रेयो यद् इह पश्यसि
05033011c तद् ब्रूहि त्वं हि नस् तात धर्मार्थकुशलो ह्य् असि
05033012a यतः प्राप्तः संजयः पाण्डवेभ्यो; न मे यथावन् मनसः प्रशान्तिः
05033012c सर्वेन्द्रियाण्य् अप्रकृतिं गतानि; किं वक्ष्यतीत्य् एव हि मे ऽद्य चिन्ता
05033013 विदुर उवाच
05033013a अभियुक्तं बलवता दुर्बलं हीनसाधनम्
05033013c हृतस्वं कामिनं चोरम् आविशन्ति प्रजागराः
05033014a कच्चिद् एतैर् महादोषैर् न स्पृष्टो ऽसि नराधिप
05033014c कच्चिन् न परवित्तेषु गृध्यन् विपरितप्यसे
05033015 धृतराष्ट्र उवाच
05033015a श्रोतुम् इच्छामि ते धर्म्यं परं नैःश्रेयसं वचः
05033015c अस्मिन् राजर्षिवंशे हि त्वम् एकः प्राज्ञसंमतः
05033016 विदुर उवाच
05033016a निषेवते प्रशस्तानि निन्दितानि न सेवते
05033016c अनास्तिकः श्रद्दधान एतत् पण्डितलक्षणम्
05033017a क्रोधो हर्षश् च दर्पश् च ह्रीस्तम्भो मान्यमानिता
05033017c यम् अर्थान् नापकर्षन्ति स वै पण्डित उच्यते
05033018a यस्य कृत्यं न जानन्ति मन्त्रं वा मन्त्रितं परे
05033018c कृतम् एवास्य जानन्ति स वै पण्डित उच्यते
05033019a यस्य कृत्यं न विघ्नन्ति शीतम् उष्णं भयं रतिः
05033019c समृद्धिर् असमृद्धिर् वा स वै पण्डित उच्यते
05033020a यस्य संसारिणी प्रज्ञा धर्मार्थाव् अनुवर्तते
05033020c कामाद् अर्थं वृणीते यः स वै पण्डित उच्यते
05033021a यथाशक्ति चिकीर्षन्ति यथाशक्ति च कुर्वते
05033021c न किं चिद् अवमन्यन्ते पण्डिता भरतर्षभ
05033022a क्षिप्रं विजानाति चिरं शृणोति; विज्ञाय चार्थं भजते न कामात्
05033022c नासंपृष्टो व्युपयुङ्क्ते परार्थे; तत् प्रज्ञानं प्रथमं पण्डितस्य
05033023a नाप्राप्यम् अभिवाञ्छन्ति नष्टं नेच्छन्ति शोचितुम्
05033023c आपत्सु च न मुह्यन्ति नराः पण्डितबुद्धयः
05033024a निश्चित्य यः प्रक्रमते नान्तर् वसति कर्मणः
05033024c अवन्ध्यकालो वश्यात्मा स वै पण्डित उच्यते
05033025a आर्यकर्मणि रज्यन्ते भूतिकर्माणि कुर्वते
05033025c हितं च नाभ्यसूयन्ति पण्डिता भरतर्षभ
05033026a न हृष्यत्य् आत्मसंमाने नावमानेन तप्यते
05033026c गाङ्गो ह्रद इवाक्षोभ्यो यः स पण्डित उच्यते
05033027a तत्त्वज्ञः सर्वभूतानां योगज्ञः सर्वकर्मणाम्
05033027c उपायज्ञो मनुष्याणां नरः पण्डित उच्यते
05033028a प्रवृत्तवाक् चित्रकथ ऊहवान् प्रतिभानवान्
05033028c आशु ग्रन्थस्य वक्ता च स वै पण्डित उच्यते
05033029a श्रुतं प्रज्ञानुगं यस्य प्रज्ञा चैव श्रुतानुगा
05033029c असंभिन्नार्यमर्यादः पण्डिताख्यां लभेत सः
05033030a अश्रुतश् च समुन्नद्धो दरिद्रश् च महामनाः
05033030c अर्थांश् चाकर्मणा प्रेप्सुर् मूढ इत्य् उच्यते बुधैः
05033031a स्वम् अर्थं यः परित्यज्य परार्थम् अनुतिष्ठति
05033031c मिथ्या चरति मित्रार्थे यश् च मूढः स उच्यते
05033032a अकामान् कामयति यः कामयानान् परिद्विषन्
05033032c बलवन्तं च यो द्वेष्टि तम् आहुर् मूढचेतसम्
05033033a अमित्रं कुरुते मित्रं मित्रं द्वेष्टि हिनस्ति च
05033033c कर्म चारभते दुष्टं तम् आहुर् मूढचेतसम्
05033034a संसारयति कृत्यानि सर्वत्र विचिकित्सते
05033034c चिरं करोति क्षिप्रार्थे स मूढो भरतर्षभ
05033035a अनाहूतः प्रविशति अपृष्टो बहु भाषते
05033035c विश्वसत्य् अप्रमत्तेषु मूढचेता नराधमः
05033036a परं क्षिपति दोषेण वर्तमानः स्वयं तथा
05033036c यश् च क्रुध्यत्य् अनीशः सन् स च मूढतमो नरः
05033037a आत्मनो बलम् अज्ञाय धर्मार्थपरिवर्जितम्
05033037c अलभ्यम् इच्छन् नैष्कर्म्यान् मूढबुद्धिर् इहोच्यते
05033038a अशिष्यं शास्ति यो राजन् यश् च शून्यम् उपासते
05033038c कदर्यं भजते यश् च तम् आहुर् मूढचेतसम्
05033039a अर्थं महान्तम् आसाद्य विद्याम् ऐश्वर्यम् एव वा
05033039c विचरत्य् असमुन्नद्धो यः स पण्डित उच्यते
05033040a एकः संपन्नम् अश्नाति वस् ते वासश् च शोभनम्
05033040c यो ऽसंविभज्य भृत्येभ्यः को नृशंसतरस् ततः
05033041a एकः पापानि कुरुते फलं भुङ्क्ते महाजनः
05033041c भोक्तारो विप्रमुच्यन्ते कर्ता दोषेण लिप्यते
05033042a एकं हन्यान् न वा हन्याद् इषुर् मुक्तो धनुष्मता
05033042c बुद्धिर् बुद्धिमतोत्सृष्टा हन्याद् राष्ट्रं सराजकम्
05033043a एकया द्वे विनिश्चित्य त्रींश् चतुर्भिर् वशे कुरु
05033043c पञ्च जित्वा विदित्वा षट् सप्त हित्वा सुखी भव
05033044a एकं विषरसो हन्ति शस्त्रेणैकश् च वध्यते
05033044c सराष्ट्रं सप्रजं हन्ति राजानं मन्त्रविस्रवः
05033045a एकः स्वादु न भुञ्जीत एकश् चार्थान् न चिन्तयेत्
05033045c एको न गच्छेद् अध्वानं नैकः सुप्तेषु जागृयात्
05033046a एकम् एवाद्वितीयं तद् यद् राजन् नावबुध्यसे
05033046c सत्यं स्वर्गस्य सोपानं पारावारस्य नौर् इव
05033047a एकः क्षमावतां दोषो द्वितीयो नोपलभ्यते
05033047c यद् एनं क्षमया युक्तम् अशक्तं मन्यते जनः
05033048a एको धर्मः परं श्रेयः क्षमैका शान्तिर् उत्तमा
05033048c विद्यैका परमा दृष्टिर् अहिंसैका सुखावहा
05033049a द्वाव् इमौ ग्रसते भूमिः सर्पो बिलशयान् इव
05033049c राजानं चाविरोद्धारं ब्राह्मणं चाप्रवासिनम्
05033050a द्वे कर्मणी नरः कुर्वन्न् अस्मिल्ँ लोके विरोचते
05033050c अब्रुवन् परुषं किं चिद् असतो नार्थयंस् तथा
05033051a द्वाव् इमौ पुरुषव्याघ्र परप्रत्ययकारिणौ
05033051c स्त्रियः कामितकामिन्यो लोकः पूजितपूजकः
05033052a द्वाव् इमौ कण्टकौ तीक्ष्णौ शरीरपरिशोषणौ
05033052c यश् चाधनः कामयते यश् च कुप्यत्य् अनीश्वरः
05033053a द्वाव् इमौ पुरुषौ राजन् स्वर्गस्योपरि तिष्ठतः
05033053c प्रभुश् च क्षमया युक्तो दरिद्रश् च प्रदानवान्
05033054a न्यायागतस्य द्रव्यस्य बोद्धव्यौ द्वाव् अतिक्रमौ
05033054c अपात्रे प्रतिपत्तिश् च पात्रे चाप्रतिपादनम्
05033055a त्रयो न्याया मनुष्याणां श्रूयन्ते भरतर्षभ
05033055c कनीयान् मध्यमः श्रेष्ठ इति वेदविदो विदुः
05033056a त्रिविधाः पुरुषा राजन्न् उत्तमाधममध्यमाः
05033056c नियोजयेद् यथावत् तांस् त्रिविधेष्व् एव कर्मसु
05033057a त्रय एवाधना राजन् भार्या दासस् तथा सुतः
05033057c यत् ते समधिगच्छन्ति यस्य ते तस्य तद् धनम्
05033058a चत्वारि राज्ञा तु महाबलेन; वर्ज्यान्य् आहुः पण्डितस् तानि विद्यात्
05033058c अल्पप्रज्ञैः सह मन्त्रं न कुर्यान्; न दीर्घसूत्रैर् अलसैश् चारणैश् च
05033059a चत्वारि ते तात गृहे वसन्तु; श्रियाभिजुष्टस्य गृहस्थधर्मे
05033059c वृद्धो ज्ञातिर् अवसन्नः कुलीनः; सखा दरिद्रो भगिनी चानपत्या
05033060a चत्वार्य् आह महाराज सद्यस्कानि बृहस्पतिः
05033060c पृच्छते त्रिदशेन्द्राय तानीमानि निबोध मे
05033061a देवतानां च संकल्पम् अनुभावं च धीमताम्
05033061c विनयं कृतविद्यानां विनाशं पापकर्मणाम्
05033062a पञ्चाग्नयो मनुष्येण परिचर्याः प्रयत्नतः
05033062c पिता माताग्निर् आत्मा च गुरुश् च भरतर्षभ
05033063a पञ्चैव पूजयल्ँ लोके यशः प्राप्नोति केवलम्
05033063c देवान् पितॄन् मनुष्यांश् च भिक्षून् अतिथिपञ्चमान्
05033064a पञ्च त्वानुगमिष्यन्ति यत्र यत्र गमिष्यसि
05033064c मित्राण्य् अमित्रा मध्यस्था उपजीव्योपजीविनः
05033065a पञ्चेन्द्रियस्य मर्त्यस्य छिद्रं चेद् एकम् इन्द्रियम्
05033065c ततो ऽस्य स्रवति प्रज्ञा दृतेः पादाद् इवोदकम्
05033066a षड् दोषाः पुरुषेणेह हातव्या भूतिम् इच्छता
05033066c निद्रा तन्द्री भयं क्रोध आलस्यं दीर्घसूत्रता
05033067a षड् इमान् पुरुषो जह्याद् भिन्नां नावम् इवार्णवे
05033067c अप्रवक्तारम् आचार्यम् अनधीयानम् ऋत्विजम्
05033068a अरक्षितारं राजानं भार्यां चाप्रियवादिनीम्
05033068c ग्रामकामं च गोपालं वनकामं च नापितम्
05033069a षड् एव तु गुणाः पुंसा न हातव्याः कदा चन
05033069c सत्यं दानम् अनालस्यम् अनसूया क्षमा धृतिः
05033070a षण्णाम् आत्मनि नित्यानाम् ऐश्वर्यं यो ऽधिगच्छति
05033070c न स पापैः कुतो ऽनर्थैर् युज्यते विजितेन्द्रियः
05033071a षड् इमे षट्सु जीवन्ति सप्तमो नोपलभ्यते
05033071c चोराः प्रमत्ते जीवन्ति व्याधितेषु चिकित्सकाः
05033072a प्रमदाः कामयानेषु यजमानेषु याजकाः
05033072c राजा विवदमानेषु नित्यं मूर्खेषु पण्डिताः
05033073a सप्त दोषाः सदा राज्ञा हातव्या व्यसनोदयाः
05033073c प्रायशो यैर् विनश्यन्ति कृतमूलाश् च पार्थिवाः
05033074a स्त्रियो ऽक्षा मृगया पानं वाक्पारुष्यं च पञ्चमम्
05033074c महच् च दण्डपारुष्यम् अर्थदूषणम् एव च
05033075a अष्टौ पूर्वनिमित्तानि नरस्य विनशिष्यतः
05033075c ब्राह्मणान् प्रथमं द्वेष्टि ब्राह्मणैश् च विरुध्यते
05033076a ब्राह्मणस्वानि चादत्ते ब्राह्मणांश् च जिघांसति
05033076c रमते निन्दया चैषां प्रशंसां नाभिनन्दति
05033077a नैतान् स्मरति कृत्येषु याचितश् चाभ्यसूयति
05033077c एतान् दोषान् नरः प्राज्ञो बुद्ध्या बुद्ध्वा विवर्जयेत्
05033078a अष्टाव् इमानि हर्षस्य नवनीतानि भारत
05033078c वर्तमानानि दृश्यन्ते तान्य् एव सुसुखान्य् अपि
05033079a समागमश् च सखिभिर् महांश् चैव धनागमः
05033079c पुत्रेण च परिष्वङ्गः संनिपातश् च मैथुने
05033080a समये च प्रियालापः स्वयूथेषु च संनतिः
05033080c अभिप्रेतस्य लाभश् च पूजा च जनसंसदि
05033081a नवद्वारम् इदं वेश्म त्रिस्थूणं पञ्चसाक्षिकम्
05033081c क्षेत्रज्ञाधिष्ठितं विद्वान् यो वेद स परः कविः
05033082a दश धर्मं न जानन्ति धृतराष्ट्र निबोध तान्
05033082c मत्तः प्रमत्त उन्मत्तः श्रान्तः क्रुद्धो बुभुक्षितः
05033083a त्वरमाणश् च भीरुश् च लुब्धः कामी च ते दश
05033083c तस्माद् एतेषु भावेषु न प्रसज्जेत पण्डितः
05033084a अत्रैवोदाहरन्तीमम् इतिहासं पुरातनम्
05033084c पुत्रार्थम् असुरेन्द्रेण गीतं चैव सुधन्वना
05033085a यः काममन्यू प्रजहाति राजा; पात्रे प्रतिष्ठापयते धनं च
05033085c विशेषविच् छ्रुतवान् क्षिप्रकारी; तं सर्वलोकः कुरुते प्रमाणम्
05033086a जानाति विश्वासयितुं मनुष्यान्; विज्ञातदोषेषु दधाति दण्डम्
05033086c जानाति मात्रां च तथा क्षमां च; तं तादृशं श्रीर् जुषते समग्रा
05033087a सुदुर्बलं नावजानाति कं चिद्; युक्तो रिपुं सेवते बुद्धिपूर्वम्
05033087c न विग्रहं रोचयते बलस्थैः; काले च यो विक्रमते स धीरः
05033088a प्राप्यापदं न व्यथते कदा चिद्; उद्योगम् अन्विच्छति चाप्रमत्तः
05033088c दुःखं च काले सहते जितात्मा; धुरंधरस् तस्य जिताः सपत्नाः
05033089a अनर्थकं विप्रवासं गृहेभ्यः; पापैः संधिं परदाराभिमर्शम्
05033089c दम्भं स्तैन्यं पैशुनं मद्यपानं; न सेवते यः स सुखी सदैव
05033090a न संरम्भेणारभते ऽर्थवर्गम्; आकारितः शंसति तथ्यम् एव
05033090c न मात्रार्थे रोचयते विवादं; नापूजितः कुप्यति चाप्य् अमूढः
05033091a न यो ऽभ्यसूयत्य् अनुकम्पते च; न दुर्बलः प्रातिभाव्यं करोति
05033091c नात्याह किं चित् क्षमते विवादं; सर्वत्र तादृग् लभते प्रशंसाम्
05033092a यो नोद्धतं कुरुते जातु वेषं; न पौरुषेणापि विकत्थते ऽन्यान्
05033092c न मूर्च्छितः कटुकान्य् आह किं चित्; प्रियं सदा तं कुरुते जनो ऽपि
05033093a न वैरम् उद्दीपयति प्रशान्तं; न दर्पम् आरोहति नास्तम् एति
05033093c न दुर्गतो ऽस्मीति करोति मन्युं; तम् आर्यशीलं परम् आहुर् अग्र्यम्
05033094a न स्वे सुखे वै कुरुते प्रहर्षं; नान्यस्य दुःखे भवति प्रतीतः
05033094c दत्त्वा न पश्चात् कुरुते ऽनुतापं; न कत्थते सत्पुरुषार्यशीलः
05033095a देशाचारान् समयाञ् जातिधर्मान्; बुभूषते यस् तु परावरज्ञः
05033095c स तत्र तत्राधिगतः सदैव; महाजनस्याधिपत्यं करोति
05033096a दम्भं मोहं मत्सरं पापकृत्यं; राजद्विष्टं पैशुनं पूगवैरम्
05033096c मत्तोन्मत्तैर् दुर्जनैश् चापि वादं; यः प्रज्ञावान् वर्जयेत् स प्रधानः
05033097a दमं शौचं दैवतं मङ्गलानि; प्रायश्चित्तं विविधाल्ँ लोकवादान्
05033097c एतानि यः कुरुते नैत्यकानि; तस्योत्थानं देवता राधयन्ति
05033098a समैर् विवाहं कुरुते न हीनैः; समैः सख्यं व्यवहारं कथाश् च
05033098c गुणैर् विशिष्टांश् च पुरोदधाति; विपश्चितस् तस्य नयाः सुनीताः
05033099a मितं भुङ्क्ते संविभज्याश्रितेभ्यो; मितं स्वपित्य् अमितं कर्म कृत्वा
05033099c ददात्य् अमित्रेष्व् अपि याचितः संस्; तम् आत्मवन्तं प्रजहत्य् अनर्थाः
05033100a चिकीर्षितं विप्रकृतं च यस्य; नान्ये जनाः कर्म जानन्ति किं चित्
05033100c मन्त्रे गुप्ते सम्यग् अनुष्ठिते च; स्वल्पो नास्य व्यथते कश् चिद् अर्थः
05033101a यः सर्वभूतप्रशमे निविष्टः; सत्यो मृदुर् दानकृच् छुद्धभावः
05033101c अतीव संज्ञायते ज्ञातिमध्ये; महामणिर् जात्य इव प्रसन्नः
05033102a य आत्मनापत्रपते भृशं नरः; स सर्वलोकस्य गुरुर् भवत्य् उत
05033102c अनन्ततेजाः सुमनाः समाहितः; स्वतेजसा सूर्य इवावभासते
05033103a वने जाताः शापदग्धस्य राज्ञः; पाण्डोः पुत्राः पञ्च पञ्चेन्द्रकल्पाः
05033103c त्वयैव बाला वर्धिताः शिक्षिताश् च; तवादेशं पालयन्त्य् आम्बिकेय
05033104a प्रदायैषाम् उचितं तात राज्यं; सुखी पुत्रैः सहितो मोदमानः
05033104c न देवानां नापि च मानुषाणां; भविष्यसि त्वं तर्कणीयो नरेन्द्र
05034001 धृतराष्ट्र उवाच
05034001a जाग्रतो दह्यमानस्य यत् कार्यम् अनुपश्यसि
05034001c तद् ब्रूहि त्वं हि नस् तात धर्मार्थकुशलः शुचिः
05034002a त्वं मां यथावद् विदुर प्रशाधि; प्रज्ञापूर्वं सर्वम् अजातशत्रोः
05034002c यन् मन्यसे पथ्यम् अदीनसत्त्व; श्रेयस्करं ब्रूहि तद् वै कुरूणाम्
05034003a पापाशङ्की पापम् एवानुपश्यन्; पृच्छामि त्वां व्याकुलेनात्मनाहम्
05034003c कवे तन् मे ब्रूहि सर्वं यथावन्; मनीषितं सर्वम् अजातशत्रोः
05034004 विदुर उवाच
05034004a शुभं वा यदि वा पापं द्वेष्यं वा यदि वा प्रियम्
05034004c अपृष्टस् तस्य तद् ब्रूयाद् यस्य नेच्छेत् पराभवम्
05034005a तस्माद् वक्ष्यामि ते राजन् भवम् इच्छन् कुरून् प्रति
05034005c वचः श्रेयस्करं धर्म्यं ब्रुवतस् तन् निबोध मे
05034006a मिथ्योपेतानि कर्माणि सिध्येयुर् यानि भारत
05034006c अनुपायप्रयुक्तानि मा स्म तेषु मनः कृथाः
05034007a तथैव योगविहितं न सिध्येत् कर्म यन् नृप
05034007c उपाययुक्तं मेधावी न तत्र ग्लपयेन् मनः
05034008a अनुबन्धान् अवेक्षेत सानुबन्धेषु कर्मसु
05034008c संप्रधार्य च कुर्वीत न वेगेन समाचरेत्
05034009a अनुबन्धं च संप्रेक्ष्य विपाकांश् चैव कर्मणाम्
05034009c उत्थानम् आत्मनश् चैव धीरः कुर्वीत वा न वा
05034010a यः प्रमाणं न जानाति स्थाने वृद्धौ तथा क्षये
05034010c कोशे जनपदे दण्डे न स राज्ये ऽवतिष्ठते
05034011a यस् त्व् एतानि प्रमाणानि यथोक्तान्य् अनुपश्यति
05034011c युक्तो धर्मार्थयोर् ज्ञाने स राज्यम् अधिगच्छति
05034012a न राज्यं प्राप्तम् इत्य् एव वर्तितव्यम् असांप्रतम्
05034012c श्रियं ह्य् अविनयो हन्ति जरा रूपम् इवोत्तमम्
05034013a भक्ष्योत्तमप्रतिच्छन्नं मत्स्यो बडिशम् आयसम्
05034013c रूपाभिपाती ग्रसते नानुबन्धम् अवेक्षते
05034014a यच् छक्यं ग्रसितुं ग्रस्यं ग्रस्तं परिणमेच् च यत्
05034014c हितं च परिणामे यत् तद् अद्यं भूतिम् इच्छता
05034015a वनस्पतेर् अपक्वानि फलानि प्रचिनोति यः
05034015c स नाप्नोति रसं तेभ्यो बीजं चास्य विनश्यति
05034016a यस् तु पक्वम् उपादत्ते काले परिणतं फलम्
05034016c फलाद् रसं स लभते बीजाच् चैव फलं पुनः
05034017a यथा मधु समादत्ते रक्षन् पुष्पाणि षट्पदः
05034017c तद्वद् अर्थान् मनुष्येभ्य आदद्याद् अविहिंसया
05034018a पुष्पं पुष्पं विचिन्वीत मूलच्छेदं न कारयेत्
05034018c मालाकार इवारामे न यथाङ्गारकारकः
05034019a किं नु मे स्याद् इदं कृत्वा किं नु मे स्याद् अकुर्वतः
05034019c इति कर्माणि संचिन्त्य कुर्याद् वा पुरुषो न वा
05034020a अनारभ्या भवन्त्य् अर्थाः के चिन् नित्यं तथागताः
05034020c कृतः पुरुषकारो ऽपि भवेद् येषु निरर्थकः
05034021a कांश् चिद् अर्थान् नरः प्राज्ञो लघुमूलान् महाफलान्
05034021c क्षिप्रम् आरभते कर्तुं न विघ्नयति तादृशान्
05034022a ऋजु पश्यति यः सर्वं चक्षुषानुपिबन्न् इव
05034022c आसीनम् अपि तूष्णीकम् अनुरज्यन्ति तं प्रजाः
05034023a चक्षुषा मनसा वाचा कर्मणा च चतुर्विधम्
05034023c प्रसादयति लोकं यः तं लोको ऽनुप्रसीदति
05034024a यस्मात् त्रस्यन्ति भूतानि मृगव्याधान् मृगा इव
05034024c सागरान्ताम् अपि महीं लब्ध्वा स परिहीयते
05034025a पितृपैतामहं राज्यं प्राप्तवान् स्वेन तेजसा
05034025c वायुर् अभ्रम् इवासाद्य भ्रंशयत्य् अनये स्थितः
05034026a धर्मम् आचरतो राज्ञः सद्भिश् चरितम् आदितः
05034026c वसुधा वसुसंपूर्णा वर्धते भूतिवर्धनी
05034027a अथ संत्यजतो धर्मम् अधर्मं चानुतिष्ठतः
05034027c प्रतिसंवेष्टते भूमिर् अग्नौ चर्माहितं यथा
05034028a य एव यत्नः क्रियते परराष्ट्रावमर्दने
05034028c स एव यत्नः कर्तव्यः स्वराष्ट्रपरिपालने
05034029a धर्मेण राज्यं विन्देत धर्मेण परिपालयेत्
05034029c धर्ममूलां श्रियं प्राप्य न जहाति न हीयते
05034030a अप्य् उन्मत्तात् प्रलपतो बालाच् च परिसर्पतः
05034030c सर्वतः सारम् आदद्याद् अश्मभ्य इव काञ्चनम्
05034031a सुव्याहृतानि सुधियां सुकृतानि ततस् ततः
05034031c संचिन्वन् धीर आसीत शिलाहारी शिलं यथा
05034032a गन्धेन गावः पश्यन्ति वेदैः पश्यन्ति ब्राह्मणाः
05034032c चारैः पश्यन्ति राजानश् चक्षुर्भ्याम् इतरे जनाः
05034033a भूयांसं लभते क्लेशं या गौर् भवति दुर्दुहा
05034033c अथ या सुदुहा राजन् नैव तां विनयन्त्य् अपि
05034034a यद् अतप्तं प्रणमति न तत् संतापयन्त्य् अपि
05034034c यच् च स्वयं नतं दारु न तत् संनामयन्त्य् अपि
05034035a एतयोपमया धीरः संनमेत बलीयसे
05034035c इन्द्राय स प्रणमते नमते यो बलीयसे
05034036a पर्जन्यनाथाः पशवो राजानो मित्रबान्धवाः
05034036c पतयो बान्धवाः स्त्रीणां ब्राह्मणा वेदबान्धवाः
05034037a सत्येन रक्ष्यते धर्मो विद्या योगेन रक्ष्यते
05034037c मृजया रक्ष्यते रूपं कुलं वृत्तेन रक्ष्यते
05034038a मानेन रक्ष्यते धान्यम् अश्वान् रक्षत्य् अनुक्रमः
05034038c अभीक्ष्णदर्शनाद् गावः स्त्रियो रक्ष्याः कुचेलतः
05034039a न कुलं वृत्तहीनस्य प्रमाणम् इति मे मतिः
05034039c अन्त्येष्व् अपि हि जातानां वृत्तम् एव विशिष्यते
05034040a य ईर्ष्युः परवित्तेषु रूपे वीर्ये कुलान्वये
05034040c सुखे सौभाग्यसत्कारे तस्य व्याधिर् अनन्तकः
05034041a अकार्यकरणाद् भीतः कार्याणां च विवर्जनात्
05034041c अकाले मन्त्रभेदाच् च येन माद्येन् न तत् पिबेत्
05034042a विद्यामदो धनमदस् तृतीयो ऽभिजनो मदः
05034042c एते मदावलिप्तानाम् एत एव सतां दमाः
05034043a असन्तो ऽभ्यर्थिताः सद्भिः किं चित् कार्यं कदा चन
05034043c मन्यन्ते सन्तम् आत्मानम् असन्तम् अपि विश्रुतम्
05034044a गतिर् आत्मवतां सन्तः सन्त एव सतां गतिः
05034044c असतां च गतिः सन्तो न त्व् असन्तः सतां गतिः
05034045a जिता सभा वस्त्रवता समाशा गोमता जिता
05034045c अध्वा जितो यानवता सर्वं शीलवता जितम्
05034046a शीलं प्रधानं पुरुषे तद् यस्येह प्रणश्यति
05034046c न तस्य जीवितेनार्थो न धनेन न बन्धुभिः
05034047a आढ्यानां मांसपरमं मध्यानां गोरसोत्तरम्
05034047c लवणोत्तरं दरिद्राणां भोजनं भरतर्षभ
05034048a संपन्नतरम् एवान्नं दरिद्रा भुञ्जते सदा
05034048c क्षुत् स्वादुतां जनयति सा चाढ्येषु सुदुर्लभा
05034049a प्रायेण श्रीमतां लोके भोक्तुं शक्तिर् न विद्यते
05034049c दरिद्राणां तु राजेन्द्र अपि काष्ठं हि जीर्यते
05034050a अवृत्तिर् भयम् अन्त्यानां मध्यानां मरणाद् भयम्
05034050c उत्तमानां तु मर्त्यानाम् अवमानात् परं भयम्
05034051a ऐश्वर्यमदपापिष्ठा मदाः पानमदादयः
05034051c ऐश्वर्यमदमत्तो हि नापतित्वा विबुध्यते
05034052a इन्द्रियैर् इन्द्रियार्थेषु वर्तमानैर् अनिग्रहैः
05034052c तैर् अयं ताप्यते लोको नक्षत्राणि ग्रहैर् इव
05034053a यो जितः पञ्चवर्गेण सहजेनात्मकर्शिना
05034053c आपदस् तस्य वर्धन्ते शुक्लपक्ष इवोडुराट्
05034054a अविजित्य य आत्मानम् अमात्यान् विजिगीषते
05034054c अमित्रान् वाजितामात्यः सो ऽवशः परिहीयते
05034055a आत्मानम् एव प्रथमं देशरूपेण यो जयेत्
05034055c ततो ऽमात्यान् अमित्रांश् च न मोघं विजिगीषते
05034056a वश्येन्द्रियं जितामात्यं धृतदण्डं विकारिषु
05034056c परीक्ष्यकारिणं धीरम् अत्यन्तं श्रीर् निषेवते
05034057a रथः शरीरं पुरुषस्य राजन्; नात्मा नियन्तेन्द्रियाण्य् अस्य चाश्वाः
05034057c तैर् अप्रमत्तः कुशलः सदश्वैर्; दान्तैः सुखं याति रथीव धीरः
05034058a एतान्य् अनिगृहीतानि व्यापादयितुम् अप्य् अलम्
05034058c अविधेया इवादान्ता हयाः पथि कुसारथिम्
05034059a अनर्थम् अर्थतः पश्यन्न् अर्थं चैवाप्य् अनर्थतः
05034059c इन्द्रियैः प्रसृतो बालः सुदुःखं मन्यते सुखम्
05034060a धर्मार्थौ यः परित्यज्य स्याद् इन्द्रियवशानुगः
05034060c श्रीप्राणधनदारेभ्य क्षिप्रं स परिहीयते
05034061a अर्थानाम् ईश्वरो यः स्याद् इन्द्रियाणाम् अनीश्वरः
05034061c इन्द्रियाणाम् अनैश्वर्याद् ऐश्वर्याद् भ्रश्यते हि सः
05034062a आत्मनात्मानम् अन्विच्छेन् मनोबुद्धीन्द्रियैर् यतैः
05034062c आत्मैव ह्य् आत्मनो बन्धुर् आत्मैव रिपुर् आत्मनः
05034063a क्षुद्राक्षेणेव जालेन झषाव् अपिहिताव् उभौ
05034063c कामश् च राजन् क्रोधश् च तौ प्रज्ञानं विलुम्पतः
05034064a समवेक्ष्येह धर्मार्थौ संभारान् यो ऽधिगच्छति
05034064c स वै संभृतसंभारः सततं सुखम् एधते
05034065a यः पञ्चाभ्यन्तराञ् शत्रून् अविजित्य मतिक्षयान्
05034065c जिगीषति रिपून् अन्यान् रिपवो ऽभिभवन्ति तम्
05034066a दृश्यन्ते हि दुरात्मानो वध्यमानाः स्वकर्मभिः
05034066c इन्द्रियाणाम् अनीशत्वाद् राजानो राज्यविभ्रमैः
05034067a असंत्यागात् पापकृताम् अपापांस्; तुल्यो दण्डः स्पृशते मिश्रभावात्
05034067c शुष्केणार्द्रं दह्यते मिश्रभावात्; तस्मात् पापैः सह संधिं न कुर्यात्
05034068a निजान् उत्पततः शत्रून् पञ्च पञ्चप्रयोजनान्
05034068c यो मोहान् न निगृह्णाति तम् आपद् ग्रसते नरम्
05034069a अनसूयार्जवं शौचं संतोषः प्रियवादिता
05034069c दमः सत्यम् अनायासो न भवन्ति दुरात्मनाम्
05034070a आत्मज्ञानम् अनायासस् तितिक्षा धर्मनित्यता
05034070c वाक् चैव गुप्ता दानं च नैतान्य् अन्त्येषु भारत
05034071a आक्रोशपरिवादाभ्यां विहिंसन्त्य् अबुधा बुधान्
05034071c वक्ता पापम् उपादत्ते क्षममाणो विमुच्यते
05034072a हिंसा बलम् असाधूनां राज्ञां दण्डविधिर् बलम्
05034072c शुश्रूषा तु बलं स्त्रीणां क्षमा गुणवतां बलम्
05034073a वाक्संयमो हि नृपते सुदुष्करतमो मतः
05034073c अर्थवच् च विचित्रं च न शक्यं बहु भाषितुम्
05034074a अभ्यावहति कल्याणं विविधा वाक् सुभाषिता
05034074c सैव दुर्भाषिता राजन्न् अनर्थायोपपद्यते
05034075a संरोहति शरैर् विद्धं वनं परशुना हतम्
05034075c वाचा दुरुक्तं बीभत्सं न संरोहति वाक्क्षतम्
05034076a कर्णिनालीकनाराचा निर्हरन्ति शरीरतः
05034076c वाक्शल्यस् तु न निर्हर्तुं शक्यो हृदिशयो हि सः
05034077a वाक्सायका वदनान् निष्पतन्ति; यैर् आहतः शोचति रात्र्यहानि
05034077c परस्य नामर्मसु ते पतन्ति; तान् पण्डितो नावसृजेत् परेषु
05034078a यस्मै देवाः प्रयच्छन्ति पुरुषाय पराभवम्
05034078c बुद्धिं तस्यापकर्षन्ति सो ऽपाचीनानि पश्यति
05034079a बुद्धौ कलुषभूतायां विनाशे प्रत्युपस्थिते
05034079c अनयो नयसंकाशो हृदयान् नापसर्पति
05034080a सेयं बुद्धिः परीता ते पुत्राणां तव भारत
05034080c पाण्डवानां विरोधेन न चैनाम् अवबुध्यसे
05034081a राजा लक्षणसंपन्नस् त्रैलोक्यस्यापि यो भवेत्
05034081c शिष्यस् ते शासिता सो ऽस्तु धृतराष्ट्र युधिष्ठिरः
05034082a अतीव सर्वान् पुत्रांस् ते भागधेयपुरस्कृतः
05034082c तेजसा प्रज्ञया चैव युक्तो धर्मार्थतत्त्ववित्
05034083a आनृशंस्याद् अनुक्रोशाद् यो ऽसौ धर्मभृतां वरः
05034083c गौरवात् तव राजेन्द्र बहून् क्लेशांस् तितिक्षति
05035001 धृतराष्ट्र उवाच
05035001a ब्रूहि भूयो महाबुद्धे धर्मार्थसहितं वचः
05035001c शृण्वतो नास्ति मे तृप्तिर् विचित्राणीह भाषसे
05035002 विदुर उवाच
05035002a सर्वतीर्थेषु वा स्नानं सर्वभूतेषु चार्जवम्
05035002c उभे एते समे स्याताम् आर्जवं वा विशिष्यते
05035003a आर्जवं प्रतिपद्यस्व पुत्रेषु सततं विभो
05035003c इह कीर्तिं परां प्राप्य प्रेत्य स्वर्गम् अवाप्स्यसि
05035004a यावत् कीर्तिर् मनुष्यस्य पुण्या लोकेषु गीयते
05035004c तावत् स पुरुषव्याघ्र स्वर्गलोके महीयते
05035005a अत्राप्य् उदाहरन्तीमम् इतिहासं पुरातनम्
05035005c विरोचनस्य संवादं केशिन्यर्थे सुधन्वना
05035006 केशिन्य् उवाच
05035006a किं ब्राह्मणाः स्विच् छ्रेयांसो दितिजाः स्विद् विरोचन
05035006c अथ केन स्म पर्यङ्कं सुधन्वा नाधिरोहति
05035007 विरोचन उवाच
05035007a प्राजापत्या हि वै श्रेष्ठा वयं केशिनि सत्तमाः
05035007c अस्माकं खल्व् इमे लोकाः के देवाः के द्विजातयः
05035008 केशिन्य् उवाच
05035008a इहैवास्स्व प्रतीक्षाव उपस्थाने विरोचन
05035008c सुधन्वा प्रातर् आगन्ता पश्येयं वां समागतौ
05035009 विरोचन उवाच
05035009a तथा भद्रे करिष्यामि यथा त्वं भीरु भाषसे
05035009c सुधन्वानं च मां चैव प्रातर् द्रष्टासि संगतौ
05035010 सुधन्वोवाच
05035010a अन्वालभे हिरण्मयं प्राह्रादे ऽहं तवासनम्
05035010c एकत्वम् उपसंपन्नो न त्व् आसेयं त्वया सह
05035011 विरोचन उवाच
05035011a अन्वाहरन्तु फलकं कूर्चं वाप्य् अथ वा बृसीम्
05035011c सुधन्वन् न त्वम् अर्हो ऽसि मया सह समासनम्
05035012 सुधन्वोवाच
05035012a पितापि ते समासीनम् उपासीतैव माम् अधः
05035012c बालः सुखैधितो गेहे न त्वं किं चन बुध्यसे
05035013 विरोचन उवाच
05035013a हिरण्यं च गवाश्वं च यद् वित्तम् असुरेषु नः
05035013c सुधन्वन् विपणे तेन प्रश्नं पृच्छाव ये विदुः
05035014 सुधन्वोवाच
05035014a हिरण्यं च गवाश्वं च तवैवास्तु विरोचन
05035014c प्राणयोस् तु पणं कृत्वा प्रश्नं पृच्छाव ये विदुः
05035015 विरोचन उवाच
05035015a आवां कुत्र गमिष्यावः प्राणयोर् विपणे कृते
05035015c न हि देवेष्व् अहं स्थाता न मनुष्येषु कर्हि चित्
05035016 सुधन्वोवाच
05035016a पितरं ते गमिष्यावः प्राणयोर् विपणे कृते
05035016c पुत्रस्यापि स हेतोर् हि प्रह्रादो नानृतं वदेत्
05035017 प्रह्राद उवाच
05035017a इमौ तौ संप्रदृश्येते याभ्यां न चरितं सह
05035017c आशीविषाव् इव क्रुद्धाव् एकमार्गम् इहागतौ
05035018a किं वै सहैव चरतो न पुरा चरतः सह
05035018c विरोचनैतत् पृच्छामि किं ते सख्यं सुधन्वना
05035019 विरोचन उवाच
05035019a न मे सुधन्वना सख्यं प्राणयोर् विपणावहे
05035019c प्रह्राद तत् त्वां पृच्छामि मा प्रश्नम् अनृतं वदीः
05035020 प्रह्राद उवाच
05035020a उदकं मधुपर्कं चाप्य् आनयन्तु सुधन्वने
05035020c ब्रह्मन्न् अभ्यर्चनीयो ऽसि श्वेता गौः पीवरीकृता
05035021 सुधन्वोवाच
05035021a उदकं मधुपर्कं च पथ एवार्पितं मम
05035021c प्रह्राद त्वं तु नौ प्रश्नं तथ्यं प्रब्रूहि पृच्छतोः
05035022 प्रह्राद उवाच
05035022a पुत्रो वान्यो भवान् ब्रह्मन् साक्ष्ये चैव भवेत् स्थितः
05035022c तयोर् विवदतोः प्रश्नं कथम् अस्मद्विधो वदेत्
05035023a अथ यो नैव प्रब्रूयात् सत्यं वा यदि वानृतम्
05035023c एतत् सुधन्वन् पृच्छामि दुर्विवक्ता स्म किं वसेत्
05035024 सुधन्वोवाच
05035024a यां रात्रिम् अधिविन्ना स्त्री यां चैवाक्षपराजितः
05035024c यां च भाराभितप्ताङ्गो दुर्विवक्ता स्म तां वसेत्
05035025a नगरे प्रतिरुद्धः सन् बहिर्द्वारे बुभुक्षितः
05035025c अमित्रान् भूयसः पश्यन् दुर्विवक्ता स्म तां वसेत्
05035026a पञ्च पश्वनृते हन्ति दश हन्ति गवानृते
05035026c शतम् अश्वानृते हन्ति सहस्रं पुरुषानृते
05035027a हन्ति जातान् अजातांश् च हिरण्यार्थे ऽनृतं वदन्
05035027c सर्वं भूम्यनृते हन्ति मा स्म भूम्यनृतं वदीः
05035028 प्रह्राद उवाच
05035028a मत्तः श्रेयान् अङ्गिरा वै सुधन्वा त्वद् विरोचन
05035028c मातास्य श्रेयसी मातुस् तस्मात् त्वं तेन वै जितः
05035029a विरोचन सुधन्वायं प्राणानाम् ईश्वरस् तव
05035029c सुधन्वन् पुनर् इच्छामि त्वया दत्तं विरोचनम्
05035030 सुधन्वोवाच
05035030a यद् धर्मम् अवृणीथास् त्वं न कामाद् अनृतं वदीः
05035030c पुनर् ददामि ते तस्मात् पुत्रं प्रह्राद दुर्लभम्
05035031a एष प्रह्राद पुत्रस् ते मया दत्तो विरोचनः
05035031c पादप्रक्षालनं कुर्यात् कुमार्याः संनिधौ मम
05035032 विदुर उवाच
05035032a तस्माद् राजेन्द्र भूम्यर्थे नानृतं वक्तुम् अर्हसि
05035032c मा गमः ससुतामात्यो ऽत्ययं पुत्रान् अनुभ्रमन्
05035033a न देवा यष्टिम् आदाय रक्षन्ति पशुपालवत्
05035033c यं तु रक्षितुम् इच्छन्ति बुद्ध्या संविभजन्ति तम्
05035034a यथा यथा हि पुरुषः कल्याणे कुरुते मनः
05035034c तथा तथास्य सर्वार्थाः सिध्यन्ते नात्र संशयः
05035035a न छन्दांसि वृजिनात् तारयन्ति; मायाविनं मायया वर्तमानम्
05035035c नीडं शकुन्ता इव जातपक्षाश्; छन्दांस्य् एनं प्रजहत्य् अन्तकाले
05035036a मत्तापानं कलहं पूगवैरं; भार्यापत्योर् अन्तरं ज्ञातिभेदम्
05035036c राजद्विष्टं स्त्रीपुमांसोर् विवादं; वर्ज्यान्य् आहुर् यश् च पन्थाः प्रदुष्टः
05035037a सामुद्रिकं वणिजं चोरपूर्वं; शलाकधूर्तं च चिकित्सकं च
05035037c अरिं च मित्रं च कुशीलवं च; नैतान् साक्ष्येष्व् अधिकुर्वीत सप्त
05035038a मानाग्निहोत्रम् उत मानमौनं; मानेनाधीतम् उत मानयज्ञः
05035038c एतानि चत्वार्य् अभयंकराणि; भयं प्रयच्छन्त्य् अयथाकृतानि
05035039a अगारदाही गरदः कुण्डाशी सोमविक्रयी
05035039c पर्वकारश् च सूची च मित्रध्रुक् पारदारिकः
05035040a भ्रूणहा गुरुतल्पी च यश् च स्यात् पानपो द्विजः
05035040c अतितीक्ष्णश् च काकश् च नास्तिको वेदनिन्दकः
05035041a स्रुवप्रग्रहणो व्रात्यः कीनाशश् चार्थवान् अपि
05035041c रक्षेत्य् उक्तश् च यो हिंस्यात् सर्वे ब्रह्महणैः समाः
05035042a तृणोल्कया ज्ञायते जातरूपं; युगे भद्रो व्यवहारेण साधुः
05035042c शूरो भयेष्व् अर्थकृच्छ्रेषु धीरः; कृच्छ्रास्व् आपत्सु सुहृदश् चारयश् च
05035043a जरा रूपं हरति हि धैर्यम् आशा; मृत्युः प्राणान् धर्मचर्याम् असूया
05035043c क्रोधः श्रियं शीलम् अनार्यसेवा; ह्रियं कामः सर्वम् एवाभिमानः
05035044a श्रीर् मङ्गलात् प्रभवति प्रागल्भ्यात् संप्रवर्धते
05035044c दाक्ष्यात् तु कुरुते मूलं संयमात् प्रतितिष्ठति
05035045a अष्टौ गुणाः पुरुषं दीपयन्ति; प्रज्ञा च कौल्यं च दमः श्रुतं च
05035045c पराक्रमश् चाबहुभाषिता च; दानं यथाशक्ति कृतज्ञता च
05035046a एतान् गुणांस् तात महानुभावान्; एको गुणः संश्रयते प्रसह्य
05035046c राजा यदा सत्कुरुते मनुष्यं; सर्वान् गुणान् एष गुणो ऽतिभाति
05035047a अष्टौ नृपेमानि मनुष्यलोके; स्वर्गस्य लोकस्य निदर्शनानि
05035047c चत्वार्य् एषाम् अन्ववेतानि सद्भिश्; चत्वार्य् एषाम् अन्ववयन्ति सन्तः
05035048a यज्ञो दानम् अध्ययनं तपश् च; चत्वार्य् एतान्य् अन्ववेतानि सद्भिः
05035048c दमः सत्यम् आर्जवम् आनृशंस्यं; चत्वार्य् एतान्य् अन्ववयन्ति सन्तः
05035049a न सा सभा यत्र न सन्ति वृद्धा; न ते वृद्धा ये न वदन्ति धर्मम्
05035049c नासौ धर्मो यत्र न सत्यम् अस्ति; न तत् सत्यं यच् छलेनानुविद्धम्
05035050a सत्यं रूपं श्रुतं विद्या कौल्यं शीलं बलं धनम्
05035050c शौर्यं च चित्रभाष्यं च दश संसर्गयोनयः
05035051a पापं कुर्वन् पापकीर्तिः पापम् एवाश्नुते फलम्
05035051c पुण्यं कुर्वन् पुण्यकीर्तिः पुण्यम् एवाश्नुते फलम्
05035052a पापं प्रज्ञां नाशयति क्रियमाणं पुनः पुनः
05035052c नष्टप्रज्ञः पापम् एव नित्यम् आरभते नरः
05035053a पुण्यं प्रज्ञां वर्धयति क्रियमाणं पुनः पुनः
05035053c वृद्धप्रज्ञः पुण्यम् एव नित्यम् आरभते नरः
05035054a असूयको दन्दशूको निष्ठुरो वैरकृन् नरः
05035054c स कृच्छ्रं महद् आप्नोति नचिरात् पापम् आचरन्
05035055a अनसूयः कृतप्रज्ञः शोभनान्य् आचरन् सदा
05035055c अकृच्छ्रात् सुखम् आप्नोति सर्वत्र च विराजते
05035056a प्रज्ञाम् एवागमयति यः प्राज्ञेभ्यः स पण्डितः
05035056c प्राज्ञो ह्य् अवाप्य धर्मार्थौ शक्नोति सुखम् एधितुम्
05035057a दिवसेनैव तत् कुर्याद् येन रात्रौ सुखं वसेत्
05035057c अष्टमासेन तत् कुर्याद् येन वर्षाः सुखं वसेत्
05035058a पूर्वे वयसि तत् कुर्याद् येन वृद्धः सुखं वसेत्
05035058c यावज्जीवेन तत् कुर्याद् येन प्रेत्य सुखं वसेत्
05035059a जीर्णम् अन्नं प्रशंसन्ति भार्यां च गतयौवनाम्
05035059c शूरं विगतसंग्रामं गतपारं तपस्विनम्
05035060a धनेनाधर्मलब्धेन यच् छिद्रम् अपिधीयते
05035060c असंवृतं तद् भवति ततो ऽन्यद् अवदीर्यते
05035061a गुरुर् आत्मवतां शास्ता शास्ता राजा दुरात्मनाम्
05035061c अथ प्रच्छन्नपापानां शास्ता वैवस्वतो यमः
05035062a ऋषीणां च नदीनां च कुलानां च महात्मनाम्
05035062c प्रभवो नाधिगन्तव्यः स्त्रीणां दुश्चरितस्य च
05035063a द्विजातिपूजाभिरतो दाता ज्ञातिषु चार्जवी
05035063c क्षत्रियः स्वर्गभाग् राजंश् चिरं पालयते महीम्
05035064a सुवर्णपुष्पां पृथिवीं चिन्वन्ति पुरुषास् त्रयः
05035064c शूरश् च कृतविद्यश् च यश् च जानाति सेवितुम्
05035065a बुद्धिश्रेष्ठानि कर्माणि बाहुमध्यानि भारत
05035065c तानि जङ्घाजघन्यानि भारप्रत्यवराणि च
05035066a दुर्योधने च शकुनौ मूढे दुःशासने तथा
05035066c कर्णे चैश्वर्यम् आधाय कथं त्वं भूतिम् इच्छसि
05035067a सर्वैर् गुणैर् उपेताश् च पाण्डवा भरतर्षभ
05035067c पितृवत् त्वयि वर्तन्ते तेषु वर्तस्व पुत्रवत्
05036001 विदुर उवाच
05036001a अत्रैवोदाहरन्तीमम् इतिहासं पुरातनम्
05036001c आत्रेयस्य च संवादं साध्यानां चेति नः श्रुतम्
05036002a चरन्तं हंसरूपेण महर्षिं संशितव्रतम्
05036002c साध्या देवा महाप्राज्ञं पर्यपृच्छन्त वै पुरा
05036003a साध्या देवा वयम् अस्मो महर्षे; दृष्ट्वा भवन्तं न शक्नुमो ऽनुमातुम्
05036003c श्रुतेन धीरो बुद्धिमांस् त्वं मतो नः; काव्यां वाचं वक्तुम् अर्हस्य् उदाराम्
|